मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२, ऋक् ४

संहिता

अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे ।
अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीताम् ॥

पदपाठः

अर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ ।
अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥

सायणभाष्यम्

हे अग्ने त्वं अपः मदीयं यज्ञरूपं कर्म वर्धाय प्रोत्सर्पिते सति हे घृतस्नू वृष्ट्युदकस्य प्रसवित्र्यौ हे द्यावाभूमी द्यावापृथिव्यौ वां युवां अर्चामि ऋचस्तुतौ स्तौमि । हे रोदसी द्यावापृथिव्यौ युवां मे मदीयं स्तोत्रं श्रृणुतं यद्यस्मिन् अहा अहःशब्दः सामर्थ्यादहोरात्र- साध्यं कर्मोच्यते सुपांसुलुगिति सप्तम्येकवचनस्याजादेशः अहनि अहोरात्रस्य साध्यकर्मणि द्यावः स्तोतारः असुनीतिं असुः प्रज्ञा तया नीग्तेइत्यसुनीतिः स्तुतिः तां अयन् गच्छन्ति अत्रास्मिन् कर्मणि पितरा सर्वस्य मातापितृभूते द्यावापृथिव्यौ नोस्मान् मध्वा वृष्ट्युद- केन शिशीतां स्नानपानादिना संस्कुरुतां ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११