मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् १

संहिता

प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्य॒ः पन्था॑मनुपस्पशा॒नम् ।
वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥

पदपाठः

प॒रे॒यि॒ऽवांस॑म् । प्र॒ऽवतः॑ । म॒हीः । अनु॑ । ब॒हुऽभ्यः॑ । पन्था॑म् । अ॒नु॒ऽप॒स्प॒शा॒नम् ।
वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । दु॒व॒स्य॒ ॥

सायणभाष्यम्

हे मदीयान्तरात्मन् यजमान वा त्वं राजानं पितॄणां स्वामिनं यमं हविषा पुरोडाशा दिना दुवस्य परिचर । कीदृशं प्रवतः प्रकृष्टकर्मवतोभूलोकवर्तिभोगसाधनं पुण्यमनुष्ठितवतः पुरुषान्महीः तत्तद्भोगोचितभूप्रदेशविशेषान् अनुपरेयिवांसं क्रमेण मरणादूर्ध्वं प्रापितवन्तं तथाबहुभ्यः स्वर्गार्थिभ्यः पुण्यकृद्भ्यः पुण्यकृतार्थे पंथां स्वर्गस्योचितमार्गं अनुपस्पशानं अबाधमानं पापिनएव पुरुषान् स्वर्गमार्गबाधेन नरकं प्रापयन्ति नतु पुण्यकृतइत्यर्थः वैव स्वतं विवस्वतः सूर्यस्य पुत्रं जनानां पापिनांसंगमनं गन्तव्यस्थानरूपं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४