मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् २

संहिता

य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ ।
यत्रा॑ न॒ः पूर्वे॑ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥

पदपाठः

य॒मः । नः॒ । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑तिः । अप॑ऽभ॒र्त॒वै । ऊं॒ इति॑ ।
यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्याः॑ । अनु॑ । स्वाः ॥

सायणभाष्यम्

प्रथमः सर्वेषां मुख्योयमः नोस्माकं प्रजानां गातुं शुभाशुभनिमित्तं विवेद जानाति । एषा गव्यूतिः नापभर्तवा उ अतिशयज्ञानयोगाद्यमस्य एषा गव्यूतिः अयं मार्गं नकेनचिद पह त्रुमपनेतुं शक्यतइत्यर्थः । यत्र यस्मिन्मार्गेनोस्माकं पूर्वे पितरः परेयुः एनानेन मार्गे ण गच्छन्तः जज्ञानाः जाताः सर्वे स्वाः स्वभूताः पथ्याः स्तकर्ममार्गभूतागतीः अनुगच्छ न्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४