मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् ३

संहिता

मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः ।
याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ॥

पदपाठः

मात॑ली । क॒व्यैः । य॒मः । अङ्गि॑रःऽभिः । बृह॒स्पतिः॑ । ऋक्व॑ऽभिः । व॒वृ॒धा॒नः ।
यान् । च॒ । दे॒वाः । व॒वृ॒धुः । ये । च॒ । दे॒वान् । स्वाहा॑ । अ॒न्ये । स्व॒धया॑ । अ॒न्ये । म॒द॒न्ति॒ ॥

सायणभाष्यम्

मातली मातलिरिन्द्रस्य सारथिः तद्वानिन्द्रोमातली सच कव्यैः कव्यभाग्भिः पितृभिः सह ववृधानोवर्धमानोभवति यमश्चांगिरोभिः पितृविशेषैः सह वर्धमानोभवति । तथा बृह स्पतिः ऋक्वभिः पितृविशेषैः सह वर्धमानोभवति तत्र देवाइन्द्रादयो यांश्च कव्यभागादीन् पितॄन् ववृधुर्वर्धयन्ति येच कव्यभागादयः पितरः देवानिन्द्रादीन् वर्धयन्ति तेषां मध्ये अन्ये इन्द्रादयः स्वाहामदन्ति स्वाहाकारेण हृष्यन्ति अन्ये पितरः स्वधया स्वधाकारेण हृष्यान्त ॥ ३ ॥ महापितृयज्ञे यमस्य इमंयमेत्यादिके द्वे अनुवाक्ये इमंयमेत्येषा आग्निमारुतेपि धाय्या । सूत्रंतुपूर्वमेवोदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४