मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् ४

संहिता

इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑ः संविदा॒नः ।
आ त्वा॒ मन्त्रा॑ः कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥

पदपाठः

इ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । सीद॑ । अङ्गि॑रःऽभिः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।
आ । त्वा॒ । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा॑ । मा॒द॒य॒स्व॒ ॥

सायणभाष्यम्

हे यमांगिरोभिः एतन्नामकैः पितृभिः संविदानः ऎकमत्यं गतस्त्वं इमं प्रस्तरं विस्ती र्णं यज्ञविशेषं आसीद आगत्योपविश । हि यस्मादेवं तस्मात् कविशस्ताः विद्वद्भिः ऋत्वि ग्भिः प्रयुक्तामंत्राः त्वा त्वां आवहन्तु । हेराजन् एना एतेन हविषा तुष्टोमादयस्व यजमा नं हर्षय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४