मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् ५

संहिता

अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व ।
विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥

पदपाठः

अङ्गि॑रःऽभिः । आ । ग॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ ।
विव॑स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ ॥

सायणभाष्यम्

हे यम वैरूपैः विविधरूपयुक्तैः वैरूपसामप्रियैर्वा यज्ञियेभिः यज्ञयोग्यैः अंगिरोभिः स हागहि आगच्छ । आगत्य च इहास्मिन् यज्ञे मादयस्व यजमानं हर्षय योविवस्वान् ते तव पितास्ति अस्मिन् यज्ञे तं विवस्वन्तं हुवे आह्वयामि सचास्तीर्णे बर्हिषि आनिषद्यो पविश्वयजमानं हर्षयतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४