मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् ६

संहिता

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ ।
तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

पदपाठः

अङ्गि॑रसः । नः॒ । पि॒तरः॑ । नव॑ऽग्वाः । अथ॑र्वाणः । भृग॑वः । सो॒म्यासः॑ ।
तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥

सायणभाष्यम्

अंगिरसः अंगिरोनामकाः अथर्वाणः अथर्वनामकाः भृगवोभृगुनामकाश्च नोस्माकं पित रोनवग्वाः अभिनवगमनयुक्ताः सदा नूतनवत् प्रीतिजनकाइत्यर्थः ते च सोम्यासः सोमप र्हन्तीति सोम्याः यज्ञियानां यज्ञार्हाणां तेषां सुमतौ अनुग्रहयुक्तायां बुद्धौ वयं स्याम सर्वदातिष्ठेम । अपिच सौमनसे भद्रे सौमनस्य कारणे कल्याणे फले स्याम सर्वदा तिष्ठेम ॥ ६ ॥ सत्रमध्ये दीक्षितस्य मरणे प्रेहिप्रेहीत्याद्याः पञ्चर्चस्तृतीयावर्जिता होत्राशंसनीयाः सूत्रि तंच—प्रेहिप्रेहिपथिभिः पूर्व्येभिरितिपञ्चानां तृतीयामुद्धरेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५