मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् ८

संहिता

सं ग॑च्छस्व पि॒तृभि॒ः सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।
हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वर्चा॑ः ॥

पदपाठः

सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभिः॑ । सम् । य॒मेन॑ । इ॒ष्टा॒पू॒र्तेन॑ । प॒र॒मे । विऽओ॑मन् ।
हि॒त्वाय॑ । अ॒व॒द्यम् । पुनः॑ । अस्त॑म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । त॒न्वा॑ । सु॒ऽवर्चाः॑ ॥

सायणभाष्यम्

हे मदीयपितः अतस्त्वं परमे उत्कृष्टे व्योमन् व्योमनि स्वर्गाख्ये स्थाने स्वभूतैः पितृ भिः सह संगच्छस्व इष्टापूर्तेन श्रौतस्मार्तदानफलेन संगच्छस्व । तत् इष्टापूर्तेन सहागम्य अवद्यं पापं हित्वाय हित्वा परित्यज्य अस्तं व्रियमानाख्यं गृहं एहि आगच्छ । ततः सुव र्चाः तृतीयार्थे प्रथमा सुवर्चसा शोभनदीप्तियुक्तेन तन्वा स्वशरीरेण संगच्छस्व ॥ ८ ॥ पैतृमेधिकं कर्मणि श्मशानायतनं प्रोक्षत्यपेतवीतेति । सूत्रितंच—गर्तोदकेन शमीशाख- या व्रिः प्रसव्यमायतनं परिव्रजन् प्रोक्षत्यपेतवीतविचसर्पतातेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५