मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् ९

संहिता

अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन् ।
अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥

पदपाठः

अप॑ । इ॒त॒ । वि । इ॒त॒ । वि । च॒ । स॒र्प॒त॒ । अतः॑ । अ॒स्मै । ए॒तम् । पि॒तरः॑ । लो॒कम् । अ॒क्र॒न् ।
अहः॑ऽभिः । अ॒त्ऽभिः । अ॒क्तुऽभिः॑ । विऽअ॑क्तम् । य॒मः । द॒दा॒ति॒ । अ॒व॒ऽसान॑म् । अ॒स्मै॒ ॥

सायणभाष्यम्

श्मशाने पूर्वं स्थिताः हे पिशाचादयः अतोस्मात् मृतयजमानदहनस्थानात् अपेत अप गच्छत विशेषेणगच्छत विसर्पत च इदं स्थानं परित्यज्य नानाभावेन दूरतरं देशं गच्छ तेत्यर्थः । पितरः अस्मै भृतयजमानस्यार्थाय एतं लोकं इदं दहनस्थानं अक्रन् परित्यज्य नानाभावेन यमस्याज्ञया अन्वकुर्वन् यमोपि अहोभिर्दिवसैः अद्भिः अभ्युक्षणोदकैः अक्तु भीरात्रिभिः व्यक्तं संगतं शुद्धिनिमित्तैः कालोदकादिभिः शोधितमित्यर्थः अवसानं दहन स्थानं अस्मै मृतयजमानस्यार्थाय ददाति दत्तवान् ॥ ९ ॥ अनुस्तरण्यावृक्कौ पार्श्वयोराम्रफलाकृती तावुद्धऋत्य प्रेतस्यहस्तयोर्निदधात्यतिद्रवसार मेया विति द्वाभ्याम् । सूत्रितंच—वृक्कावृद्धऋत्यपाण्योरादध्यादतिद्रवसारमेयौश्वानाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५