मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् १०

संहिता

अति॑ द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।
अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ उपे॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥

पदपाठः

अति॑ । द्र॒व॒ । सा॒र॒मे॒यौ । श्वानौ॑ । च॒तुः॒ऽअ॒क्षौ । श॒बलौ॑ । सा॒धुना॑ । प॒था ।
अथ॑ । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । उप॑ । इ॒हि॒ । य॒मेन॑ । ये । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥

सायणभाष्यम्

हे अग्ने साधुना पथा समीचीनेन मार्गेण उभौ सारमेयौ श्वानौ अतिद्रव श्वानावुभौ अतिद्रव अतिक्रम्यगच्छ । यमसंबन्धिनौ यौ श्वानौ प्रेतस्य बाधकौ तौ परित्यज्य समी चीनेन मार्गेण प्रेतं नयेत्यर्थः । कीदृशौश्वानौ सारमेयौ सरमानाम काचित्प्रसिद्धा देवशुनी तस्याः पुत्रौ चतुरक्षौ उपरिभागे पुनरप्यक्षिद्वयं ययोस्तादृशौ शबरौ कर्बुरवर्णौ । अथ शोभनमार्गेण गमनानन्तरं ये पितरोयमेन सधमादं सहर्षं मदन्ति प्राप्नुवन्ति तान् सुविद त्रान् सुष्ठु अभिज्ञान् पितॄन् उपेहि उपगच्छ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५