मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् १२

संहिता

उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ ।
ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥

पदपाठः

उ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒तः॒ । जना॑न् । अनु॑ ।
तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुनः॑ । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥

सायणभाष्यम्

ममस्य संबन्धिनौ दूतौ श्वानौ जनाननु प्राणिनौ लक्षीकृत्य सर्वस्य चरतः । कीदृशौ उरूणसौ दीर्घनासिकायुक्तौ असुतृपौ परकीयान् प्राणान् स्वीकृत्य तैस्तृप्यन्तौ उदुंबलौ उरुबलौ विस्तीर्णबलौ तावुभौ दूतौ सूर्याय दृशये सूर्यस्यदर्शनार्थं अद्य दिने इह कर्मणि भद्रमसुं समीचीनं प्राणं पुनरस्मभ्यं दातां अदत्तां ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६