मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् १३

संहिता

य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः ।
य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥

पदपाठः

य॒माय॑ । सोम॑म् । सु॒नु॒त॒ । य॒माय॑ । जु॒हु॒त॒ । ह॒विः ।
य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑तः । अर॑म्ऽकृतः ॥

सायणभाष्यम्

हे ऋत्विजोयमाय यमदेवार्थं सोमं सुनुत लतात्मकं सोममभिषुणुत । तथा यमाय यमार्थं हविर्जुहुत अग्निदूतः अस्मिन्यज्ञे सोमोयमग्निदूतः । अग्नेदूर्तत्वमन्यत्राम्नातं—अग्नि र्देवानांदूतआसीदिति । अरंकृतः बहुभिर्द्रव्यैरलंकाररूपैर्युक्तः तादृशोयज्ञोयमं ह यममेव गच्छति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६