मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् १४

संहिता

य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत ।
स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायु॒ः प्र जी॒वसे॑ ॥

पदपाठः

य॒माय॑ । घृ॒तऽव॑त् । ह॒विः । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ ।
सः । नः॒ । दे॒वेषु॑ । आ । य॒म॒त् । दी॒र्घम् । आयुः॑ । प्र । जी॒वसे॑ ॥

सायणभाष्यम्

हे ऋत्विजोयूयं यमाय बृतवदाज्येन संयुक्तं हविः पुरोडाशादिकं जुहोत जुहुत प्रति ष्ठत च यमं यूयमुपतिष्ठध्वं च देवेषु मध्ये सयमोदेवः प्रजीवसे प्रकृष्टजीवनार्थं नोस्माकं दीर्घमायुः आयमत् प्रयच्छतु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६