मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् १५

संहिता

य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन ।
इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्य॒ः पूर्वे॑भ्यः पथि॒कृद्भ्य॑ः ॥

पदपाठः

य॒माय॑ । मधु॑मत्ऽतमम् । राज्ञे॑ । ह॒व्यम् । जु॒हो॒त॒न॒ ।
इ॒दम् । नमः॑ । ऋषि॑ऽभ्यः । पू॒र्व॒ऽजेभ्यः॑ । पूर्वे॑भ्यः । प॒थि॒कृत्ऽभ्यः॑ ॥

सायणभाष्यम्

हे ऋत्विजोयमाय राज्ञे मधुमत्तमं अतिशयेन मधुरं हव्यं पुरोडाशादिकं हविर्जुहोतन जुहुत । पूर्वजेभ्यः सृष्ट्यादावुत्पन्नेभ्यः अतएव पूर्वेभ्यः अस्मत्तः पूर्वभाविभ्यः पथिकृद्भ्यः शोभनमार्गकारिभ्यः ऋषिभ्यः यइदं प्रत्यक्षं यथा भवति तथा नमोस्तु ॥ १५ ॥

  • ऋग्वेदः  १०.१४.१५
  • ऋषिः  यमः
  • देवता  यमः
  • छन्दः  बृहती
  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६