मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् ८

संहिता

ये न॒ः पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
तेभि॑र्य॒मः सं॑ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भि॑ः प्रतिका॒मम॑त्तु ॥

पदपाठः

ये । नः॒ । पूर्वे॑ । पि॒तरः॑ । सो॒म्यासः॑ । अ॒नु॒ऽऊ॒हि॒रे । सो॒म॒ऽपी॒थम् । वसि॑ष्ठाः ।
तेभिः॑ । य॒मः । स॒म्ऽर॒रा॒णः । ह॒वींषि॑ । उ॒शन् । उ॒शत्ऽभिः॑ । प्र॒ति॒ऽका॒मम् । अ॒त्तु॒ ॥

सायणभाष्यम्

सोम्यासः सोमसंपादिनोवसिष्ठाः वस्तृतमाः कृताच्छादनाः धनवत्तमावा नोस्माकं ये पूर्वे पितरः सोमपीथं सोमपानं अनूहिरे आनुपूर्व्येण देवेभ्यश्च पितृभ्यश्च प्राप्नुवन्तः दत्त वन्तइत्यर्थः । उशन् पितृभिः सहसंभोगं कामयमानोयमः पितृपतिः उशद्भिर्यमेन सह सं- भोगं कामयमानैस्तेभिस्तैरस्मदीयैः पितृभिः सह रराणोरममाणः हवींषि अस्माभिर्दत्तानि प्रतिकामं कामं प्रति अत्तु यानियानि हवींषि कामयते तानितानि भक्षयत्वित्यर्थः ॥ ८ ॥ महापितृयज्ञे अग्नेः कव्यवाहनस्य येतातृषुरित्येषा प्रथमानुवाक्या । सूत्रितंच—येतातृषु- र्देवत्राजेहमानास्त्वदग्नेकाव्यात्वन्मनीषाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८