मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् ११

संहिता

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥

पदपाठः

अग्नि॑ऽस्वात्ताः । पि॒त॒रः॒ । आ । इ॒ह । ग॒च्छ॒त॒ । सदः॑ऽसदः । स॒द॒त॒ । सु॒ऽप्र॒नी॒त॒यः॒ ।
अ॒त्त । ह॒वींषि॑ । प्रऽय॑तानि । ब॒र्हिषि॑ । अथ॑ । र॒यिम् । सर्व॑ऽवीरम् । द॒धा॒त॒न॒ ॥

सायणभाष्यम्

अग्निष्वात्ताः अग्निनास्वादिताः एतन्नामकाः पितरः यूयं इहास्मिन् पितृकर्मणि आग- च्छत । आगत्य च हे सुप्रणीतयः अभिपूजितप्रणयनायूयं सदः सदः स्वस्वस्थानं सदत सीदत तत्रतत्र स्थाने यथेष्टमुपविशतेत्यर्थः । उपविश्य च बर्हिष्यासादितानि प्रयतानि सुचीनि हवींषि अत्त भक्षयत । अथानन्तरं सर्ववीरं सर्वैर्बीरैः पुत्रपौत्रैरुपेतं रयिं धनं दधातन अस्मभ्यंदत्त ॥ ११ ॥ महापितृयज्ञे वषट्कारक्रियायां त्वमग्नईळितइत्येषा स्विष्टकृतोयाज्या । सूत्रितंच—यो- ग्निः कव्यवाहनस्त्वमग्नईळितोजातवेदइतिसंयाज्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९