मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् १२

संहिता

त्वम॑ग्न ईळि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
प्रादा॑ः पि॒तृभ्य॑ः स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । ई॒ळि॒तः । जा॒त॒ऽवे॒दः॒ । अवा॑ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वी ।
प्र । अ॒दाः॒ । पि॒तृऽभ्यः॑ । स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥

सायणभाष्यम्

हे जातवेदः जातं सर्वं जगद्वेत्तीति जातवेदाः तथाविध हे अग्ने ईळितः अस्माभिः स्तुतस्त्वं हव्यानि अस्मदीयानि हवींषि सुरभीणि सुगन्धीनि कृत्वी कृत्वा अवाट् हवनं कृतवासि । कृत्वाच पितृभ्यः प्रादाः । ते च पितरः स्वधया स्वधाकाद्रेण दत्तं हविः अक्ष न् अदन्तु हे देव त्वमपि प्रयता प्रयत्नसंपादितानि हवींषि अद्धि भक्षय ॥ १२ ॥ महापितृयज्ञे येचेहेविद्वितीयानुवाक्या । सूत्रमुक्तम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९