मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् ४

संहिता

अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः ।
यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥

पदपाठः

अ॒जः । भा॒गः । तप॑सा । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चिः । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चिः ।
याः । ते॒ । शि॒वाः । त॒न्वः॑ । जा॒त॒ऽवे॒दः॒ । ताभिः॑ । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥

सायणभाष्यम्

अजः जननरहितः शरीरेन्द्रियादिभागव्यतिरिक्तः अन्तरपुरुषलक्षणोयोभागोस्ति हे अग्ने ते त्वदीयेन तपसातापनेन तं तादृशं भागं तपस्व तप्तं कुरु तथा ते तव शोचिः शोकहे तुज्वालाविशेषः तं भागं तपतु संस्करोतु । अपिच ते तवार्चिर्भासकः ज्वालाविशेषः तं भागं तपतु संस्करोतु । अपिच ते तवार्चिर्भासकः ज्वालाविशेषः तं भागं तपतु । तपः— शोचिरर्चिःशब्दानां सन्तापतारतम्येनभेदः । जातवेदः ते तव यास्तन्वोमूर्तयः शिवाः सुख हेतवः नतु तापप्रदाः ताभिरेनं तनूभिः प्रेतं सुकृतां शोभनकर्मकारिणां लोकं स्थानं वह प्रापय । उशब्दः पूरणः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०