मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् ५

संहिता

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभि॑ः ।
आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेष॒ः सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥

पदपाठः

अव॑ । सृ॒ज॒ । पुनः॑ । अ॒ग्ने॒ । पि॒तृऽभ्यः॑ । यः । ते॒ । आऽहु॑तः । चर॑ति । स्व॒धाभिः॑ ।
आयुः॑ । वसा॑नः । उप॑ । वे॒तु॒ । शेषः॑ । सम् । ग॒च्छ॒ता॒म् । त॒न्वा॑ । जा॒त॒ऽवे॒दः॒ ॥

सायणभाष्यम्

हे अग्ने यः प्रेतः पुमान् ते तुभ्यं आहुतः चितौ मंत्रेण समर्पितः सन् स्वधाभिः स्व- धाकारसमपितैरुदकादिभिः सह चरति तं प्रेतं पितृभ्यः पितृप्राप्त्यर्थं पुनरवसृज भूयः प्रेरय । अयं प्रेतआयुर्जीवनं वसानआच्छादयन् आयुषा युक्तइत्यर्थः । शॆषः शिष्यमाणमस्थिलक्षणं यजनीयं शरीरं उपवेतु उपगच्छतु । हे जातवेदः तव प्रसादात् तन्वा शरीरेण संगच्छतां संगतोभवतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०