मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् ३

संहिता

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य ।
प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयु॑ः प्रत॒रं दधा॑नाः ॥

पदपाठः

इ॒मे । जी॒वाः । वि । मृ॒तैः । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑तिः । नः॒ । अ॒द्य ।
प्राञ्चः॑ । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥

सायणभाष्यम्

इमे जीवाः जीवन्तः पुरुषाः मृतैः पित्रादिभिस्तेभ्यइत्यर्थः व्याववृत्रन् व्यावृत्ताभवन्तु एते नम्रियन्तामितिभावः । किंच अद्यास्मिन् दिने नोस्माकं अशौचे विसृष्टे देवहूतिः देवा- नामाह्वानं यत्र सदेवहूतिः पितृमेधाख्योयज्ञः भद्रा कल्याणोभूद्भवतु । ततउत्तरं वयं प्रांचः प्राङ्मुखांचनाः अयाम गच्छेम प्रत्यंचइतिभावः नृतये नर्तनाय कर्मणि गात्रविक्षेपाय स्वकर्मानुअनायेतिभावः हसाय हसनाय पुत्रादिभिः सहक्रीडनाय । कीदृशावयं द्राघीयआ- युः प्रतरं दधानाः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६