मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् ७

संहिता

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु ।
अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥

पदपाठः

इ॒माः । नारीः॑ । अ॒वि॒ध॒वाः । सु॒ऽपत्नीः॑ । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । वि॒श॒न्तु॒ ।
अ॒न॒श्रवः॑ । अ॒न॒मी॒वाः । सु॒ऽरत्नाः॑ । आ । रो॒ह॒न्तु॒ । जन॑यः । योनि॑म् । अग्रे॑ ॥

सायणभाष्यम्

अविधवाः धवः पतिः अविगतपतिकाः जीवद्भर्तृकाइत्यर्थः सुपत्नीः शोभनपतिकाः इमानारीः नार्यः आंजनेन सर्वतोंजनसाधनेन सर्पिषा घृतेन अक्तनेत्राः सत्यः संविशन्तु स्वगृहान् प्रविशन्तु । तथा अनश्रवः अश्रुवर्जिताः अरुदत्यः अनमीवाः अमीवारोगस्तद्व- र्जिताः मानसदुःखवर्जिताइत्यर्थः सुरत्नाः शोभनधनसहिताः जनयः जनयन्त्यपत्यमितिज- नयोभार्याः ताअग्रे सर्वेषां प्रथमतएव योनिं गृहं आरोहन्तु आगच्छन्तु ॥ ७ ॥ देवरादिकः प्रेतपत्नीमुदीर्ष्वनारीत्यनयाभर्तृसकाशादुत्थापयेत् । सूत्रितंच—तामुत्थापये- द्देवरःपतिस्थानीयोन्तेवासीजरद्दासोवोदीर्ष्वनार्यभिजीवलोकमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७