मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् २

संहिता

अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम् ।
यस्य॒ धर्म॒न्त्स्व१॒॑रेनी॑ः सप॒र्यन्ति॑ मा॒तुरूधः॑ ॥

पदपाठः

अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् ।
यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥

सायणभाष्यम्

भुजां हविर्भुजां देवानां मध्ये यविष्ठं अहन्यहनि अग्निहोत्रादिकर्मार्थं जायमानत्वादति शयेन युवानं शासा अनुशासनेन मित्रं यस्मादिदं यस्मादिदं कर्तव्यं इदं न कर्तव्यमिति सर्वमनुशास्ति तस्मात् सर्वस्य मित्रभूतमित्यर्थः । दुर्धरीतुं दुर्धरणीयं संग्रामे शत्रुभिर्दुर्नि- वारणीयं एवंभूतमग्निं ईळे स्तौमि । अपिच यस्याग्नेः धर्मन् धर्मणि अग्निहोत्रादिके कर्मणि स्वः द्युलोकमादित्यं सर्वं देवजातं वा एनीः एन्यः प्रतिगंत्र्यः आहुतयः स्तुतयश्च सपर्यन्ति परिचरन्ति सेवन्ते । यद्वा स्वः सपर्यन्तीत्यनयोः सामानाधिकरण्यं अत्र स्वरित्ययं सर्व- शब्दोनिपातः स्वः सर्वे देवाः एनीः आत्मनः प्रतिगंत्रीः आहुतीः स्तुतीश्च सपर्यन्ति सेव- न्ते उपजीवन्तीत्यर्थः । तत्रदृष्टान्तः—लुप्तोपममेतत् मातुः गोरूधः क्षीरोपसंहारस्थानं प्रति यथा वत्साउपजीवन्ति तद्वत् तमग्निमीळइति पूर्वेण संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः