मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् १०

संहिता

ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषा॑ः ।
गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभा॑ः ॥

पदपाठः

ए॒व । ते॒ । अ॒ग्ने॒ । वि॒ऽम॒दः । म॒नी॒षाम् । ऊर्जः॑ । न॒पा॒त् । अ॒मृते॑भिः । स॒ऽजोषाः॑ ।
गिरः॑ । आ । व॒क्ष॒त् । सु॒ऽम॒तीः॑ । इ॒या॒नः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥

सायणभाष्यम्

एव एवमुक्तप्रकारेण हे ऊर्जोनपात् ओषधिवनस्पतिपितुभूतस्यान्नस्य पौत्र हे अग्ने अमृतेभिः अमृतैर्हविर्लक्षणैरन्नैः सजोषाः संगतोविमदोनाम ऋषिः मनीषां प्रकृष्टां बुद्धिं कामयमानः सन् ते तुभ्यं गिरः स्तुतिलक्षणावाचः आवक्षत् आभिमुख्येनोक्तवान् वक्ते- श्छन्दसि लेटि रूपं ततस्त्वं एतत् ज्ञात्वा सुमतीरियानः शोभनलक्षणाबुद्धीस्तंगमयन् इषमन्नं ऊर्जं क्षीरादिकं रसं च सुक्षितिं शोभननिवासं यद्वा क्षितयोमनुष्याः शोभनपुत्र पौत्रादिकं यत्किंचिद्देयमस्ति तद्विश्वं धनं च आभाः तस्मै विमदाय आहर देहि ॥ १० ॥

आग्निंनइत्यष्टर्चं पंचमं सूक्तं आस्तारपंक्तिच्छन्दस्कं आद्यौ द्वौ गायत्रौ पादौ ततो द्वौ जागतौ सा आस्तारपंक्तिः ऋषिदेवते पूर्ववत् । तथाचानुक्रान्तं—आग्निंनाष्टावास्तारपांक्त- मिति । पृष्ठ्यस्य चतुर्थेहनि आग्निंनस्ववृक्तिभिरित्याज्यमिति । महाव्रते आग्निमारुते याव- तीस्वृक्षु इलादं साम स्तुवीरन् तदानीमदितस्तावत्यऋचोनुरूपार्थाः सूत्रितंच—यदिलांदं भूयसीषु चेत् स्तुवीरन्नाग्निंनस्ववृक्तिभिरितितावतीरनुरूपइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः