मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् १

संहिता

कुह॑ श्रु॒त इन्द्र॒ः कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते ।
ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥

पदपाठः

कुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ ।
ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥

सायणभाष्यम्

अद्यास्मिन् दिने इन्द्रः कुह कुत्र स्थाने श्रुतो विश्रुतः प्रख्यातः कस्मिन् जने यज- माने इज्यत्वेन स्तुत्यत्वेनावस्थितः श्रूयते प्रख्यायते । तत्रदृष्टान्तः—मित्रोन सूर्यइव सखेव वा तद्वत् । यइन्द्रऋषीणां भृग्वादीनां क्षये निवासे आश्रमे गुहावा गुहायामरण्ये वा गिरा स्तुतिलक्षणया वाचा चर्कृषे अत्यर्थमाकृष्यते अत्यर्थं स्तूयतइत्यर्थः । सइन्द्रः कुह श्रुतइति पूर्वेण स्तुतिलक्षणया वाचा चर्कृषे अत्यर्थमाकृष्यते अत्यर्थं स्तुयतइत्यर्थः । सइन्द्रः कुह श्रुतइति पूर्वेण संबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः