मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् २

संहिता

इ॒ह श्रु॒त इन्द्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः ।
मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥

पदपाठः

इ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः ।
मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥

सायणभाष्यम्

इहास्मिन् यज्ञे इन्द्रः श्रुतः प्रख्यातः अद्यास्मिन् दिवसे अस्मे अस्माभिः स्तवे स्तूय- ते । कीदृशः वज्री वज्रवान् ऋचीषमः । यद्यावइन्द्रतेशतंशतंभमीरुतस्युः नत्वावज्रित्यादि- कया स्तुत्या समानगुणइत्यर्थः । यइन्द्रः मित्रोन सूर्यइव स्निग्धइव वा जनेषु यशः अन्नं कीर्तिं च वा चक्रे करोति । कीदृशं असामि असाधारणं सइन्द्रः अस्माभिः स्तूयतइति पूर्वेण संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः