मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् ५

संहिता

त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै ।
ययो॑र्दे॒वो न मर्त्यो॑ य॒न्ता नकि॑र्वि॒दाय्य॑ः ॥

पदपाठः

त्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै ।
ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥

सायणभाष्यम्

यच्छब्दसंबन्धादुत्तरतोर्धर्चः पूर्वं व्याख्यायते—ययोस्त्वदीययोरश्वयोर्यन्ता नियन्ता नि वारयिता देवोन देवानां मध्ये कश्चिदपि देवोनास्ति । नकिर्न कश्चिदपि विदाय्यः वेत्ता जवस्य बलस्येति वा शेषः । हे इन्द्र त्वं वातस्य वायोर्जवेन बलेन च युक्तौ ऋज्रा ऋ- जुगामिनौ त्या चित् तावपि अस्वात्वदीयावश्वौ त्मना आत्मनैव सारथिनिरपेक्षेणेत्यर्थः वहध्यै वहनार्थं अभिप्रेतदेशप्रापणायेत्यर्थः आगाः आभिमुख्येन गच्छसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः