मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् ८

संहिता

अ॒क॒र्मा दस्यु॑र॒भि नो॑ अम॒न्तुर॒न्यव्र॑तो॒ अमा॑नुषः ।
त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ॥

पदपाठः

अ॒क॒र्मा । दस्युः॑ । अ॒भि । नः॒ । अ॒म॒न्तुः । अ॒न्यऽव्र॑तः । अमा॑नुषः ।
त्वम् । तस्य॑ । अ॒मि॒त्र॒ऽह॒न् । वधः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ॥

सायणभाष्यम्

अकर्म अविद्यमानयागादिकर्मा दस्युः उपक्षपयिता अभि आभिमुख्येन स्वरूपतोनो- स्मान् अमन्तुः अज्ञाता यद्वा अत्रावेत्युपसर्गस्य वकारलोपोद्रष्टव्यः अवमन्तुः अवमन्ता अभिभविता अन्यव्रतः श्रुतिस्मृतिव्यतिरिक्तकर्मा अमानुषः मनुष्यसंव्यवहारद्वाह्यः असुर- प्रकृतिरित्यर्थः एवंभूतोयोस्ति हे अमित्रहन् शत्रूणां हन्तरिन्द्र त्वं दासस्य उपक्षपयितव्य- स्य तस्य वधः हन्ता सन् दंभय तं शत्रुं भिन्धि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः