मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् २

संहिता

यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ ।
विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नाम् ॥

पदपाठः

यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ ।
विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥

सायणभाष्यम्

विप्रोमेधावी अयं यजमानजनः यस्य पूष्णः संबंधि त्यत्तत् प्रसिद्धं महित्वं महत्वं वा ताप्यं मण्डले संभृतं परिपक्वमुदकंधीतिभिः यागादिकर्मभिः आवंसत् संभज्ते सदेवः सुष्टु- तीनां तदीयाः शोभनाः स्तुतीः चिकेत जानातु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३