मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् ९

संहिता

अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः ।
भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ शृणव॒द्धव॑म् ॥

पदपाठः

अ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ।
भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥

सायणभाष्यम्

माहिनोमहान् पूषा अस्माकं स्वभूतं रथं ऊर्जा बलेनान्नेन वा अविष्टु अवतु रक्षतु । किंच वाजानामन्नानां वृधोवर्धकोभुवत् भवतु नोस्मदीयं इममीदृग्भूतं हवमाह्वानं श्रृण- वत् श्रृणोतु ॥ ९ ॥

असत्सुमइति चतुर्विंशत्यृचमेकादशं सूक्तं इन्द्रपुत्रस्य वसुक्रस्यार्षं त्रैष्टुभमैन्द्रं तथा चानु क्रान्तं—असत्सुचतुर्विंशतिरैन्द्रोवसुक्रइति । महाव्रते मरुत्वतीयशस्त्रे एतत्सूक्तम् । तथैवपञ्च- मारण्यके सूत्रितञ्च—असत्सुमेजरितः साभिवेगः पिबासोममभियमुग्रतर्दइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४