मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १

संहिता

अस॒त्सु मे॑ जरित॒ः साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् ।
अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥

पदपाठः

अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् ।
अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥

सायणभाष्यम्

वासुक्रेषु सूक्तेषु बाहुल्येनेन्द्रः स्तूयते इदानीमिन्द्रोवसुक्रं स्तोतुमुद्यतं पुत्रं संबोध्य स्व सामर्थ्यं कथयति । येन विज्ञातदेवतारूपः सन् सुखेन स्तोष्यतीति यद्वा कार्यकारणयोरेक- त्वोपचारात् । आत्मावैपुत्रनामासीतिवचनात् । इन्द्ररूपेणावस्थितोवसुक्रआत्मानं स्तौति क्वचित् क्वचिदिन्द्रं चेति । हे जरितः स्तोतः मे मम सुशोभनः सतादृशः अभिवेगः अभिगमनं म- नसोवृत्तिविशेषः असत् अस्ति विद्यते यत् येनाभिवेगेन सुन्वते मदर्थं सोमाभिषवं कुर्वते यजमानाय यज्वते शिक्षं अभिलषितमर्थं ददामि । किंच अहं अनाशीर्दां आशीरन्यत्र प्रा- र्थना इह सामर्थ्यात्प्रार्थ्यमानं हविरुच्यते तत् मह्यं अददतं जनं यद्वा आशीरिति सोमा- श्रयणं दध्युच्यते तस्यादातारं असोमयाजिनमित्यर्थः । प्रहन्तास्मि प्रकर्षेण हिंसिता भवामि । कीदृशं सत्यध्वृतं सत्यस्य हिंसकं अनृतवादिनं चेत्यर्थः वृजिनायन्तं पापं कर्तुमिच्छन्तं आभुं व्याप्तवन्तम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५