मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् ७

संहिता

अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् ।
द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥

पदपाठः

अभूः॑ । ऊं॒ इति॑ । औक्षीः॑ । वि । ऊं॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् ।
द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥

सायणभाष्यम्

अत्र मध्यमपुरुषेणेन्द्रस्योच्यमानत्वात् वसुक्रइन्द्रं स्तौति । उइत्यवधारणे । हे इन्द्र अ- भूः त्वमेव प्रादुर्भवसि औक्षीः कालेकाले त्वमेव पृथिवीं सिञ्चसि नान्यइत्यर्थः आनडि- त्यादौ सर्वत्र परोक्षनिर्देशे प्रत्यक्षीकरणार्थं मध्यमपुरुषेण प्रकृतत्वादेकवाक्यतायै युष्मच्छ- ब्दसमानार्थोभवच्छब्दोध्याहर्तव्यः विइति वैविध्ये । उ इति वार्थे । आयुर्जीवितमुच्यते । इन्द्रोभवान्विविधमायुश्च आनट् व्याप्नोति आभूतसंप्लवाज्जीवतीत्यर्थः । किंच पूर्वः पुरात- नोभवानिन्द्रः नु क्षिप्रं दर्षत् द्दृविदारणे सिब्बहुलं लेटि वज्रेण शत्रून् विदारयति अप- रोन्यः शत्रुर्नुदर्षत् नु इति निषेधार्थेभवन्तमिन्द्रं नविदारयति भवानेव सर्वं शजुजातं हिन स्तीत्यर्थः । अपिच योभवानिन्द्रः अस्येदृशस्य रजसोलोकस्य त्रैलोक्यस्येत्यर्थः पारे परतः परमसूक्ष्मवायुरूपेण सृष्टिकारणात्मना स्थित्वेत्यर्थः विवेष सर्वतोव्याप्नोति तमिन्द्रं द्वेइति सामर्थ्यात् द्यावापृथिव्यौ न परिभूतः नपरिभवतः अभिभवितुं न शक्नुतइत्यर्थः । कीदृश्यौ पवस्ते पवतिर्गतिकर्म अस्मादौणादिकोस्तप्रत्ययः अतः अजाद्यतष्टाबिति टापि कृते प्रथ- माद्विवचने चैतद्रुपं भवति महत्त्वेन सर्वस्याभिभवनाय गन्त्र्यौ यद्वा सर्वस्य प्रकर्षेणा- च्छादयित्र्यौ रेफलोपश्छान्दसः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६