मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १०

संहिता

अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ ।
स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेदः॑ ॥

पदपाठः

अत्र॑ । इत् । ऊं॒ इति॑ । मे॒ । मं॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒ऽपात् । च॒ । यत् । चतुः॑ऽपात् । स॒म्ऽसृ॒जानि॑ ।
स्त्री॒ऽभिः । यः । अत्र॑ । वृष॑णम् । पृ॒त॒न्यात् । अयु॑द्धः । अ॒स्य॒ । वि । भ॒जा॒नि॒ । वेदः॑ ॥

सायणभाष्यम्

मे मम अत्रास्मिन्स्तोत्रे उक्तं मया कथितं सत्यमित् यथा भूतमेव मंससे त्वं जानीहि अर्थवादरूपेणनैतदध्यारोपितमित्यर्थः । उइति पूरणः । किञ्च द्विपाच्च मनुष्यादिकं च चतु- ष्पाच्च पश्वादिकं च यत्स्थावरजंगमात्मकं जगत्संसृजानि अहमुत्पादयामीति अत्रास्मिञ्च- गति स्त्रीभिः स्त्रीसदृशैर्बलादिहीनैः पुरुषैः सह यः शूरंमन्योजनः वृषणंअभिलषितस्य वर्षि तारं मां षरित्यज्येति शॆषः । पृतन्यात् युद्धं कर्तुमिच्छति अहं अस्येदृशस्य स्वभूतं वेदो- धनं अयुद्धः तेन पुरुषेणायोद्धासन् बलादपहृत्य विभजानि स्तोतृभ्योयष्ट्ऋभ्यश्च ददामी- त्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६