मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १७

संहिता

पीवा॑नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् ।
द्वा धनुं॑ बृह॒तीम॒प्स्व१॒॑न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता॑ ॥

पदपाठः

पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् ।
द्वा । धनु॑म् । बृ॒ह॒तीम् । अ॒प्ऽसु । अ॒न्तरिति॑ । प॒वित्र॑ऽवन्ता । च॒र॒तः॒ । पु॒नन्ता॑ ॥

सायणभाष्यम्

वीराः प्रजापतेः पुत्राः अङिरसः पीवानां स्थूलं मेदोमांसादियुक्तमित्यर्थः मेषं अजं अपचन्त प्रजापतिरूपस्येन्द्रस्यार्थाय पक्तवन्तोभवन् पशुयागं कुर्वन्तइत्यर्थः । किञ्च लुप्तो- पममेतत् । यथा देवानां अक्षाः दीवे देवने रमणस्थाने न्युप्ताः निक्षिप्ताः सन्तः अन्वासन् संक्रीडमानयोर्द्वयोरेकतरस्यानुगताभवन्ति तथा सर्वेङ्गिरसः प्रजापतेरनुगताभवन्ति । द्वा अङ्गिरसां मध्ये द्वावङ्गिरसौ धनुं धनुशब्दोत्र धनुःशब्दपर्यायोधनर्यायोवा धनुर्यथा वध- साधनं तथा अज्ञानादिवधसाधनं धनवत् प्रीतिकरं वा कपिलमित्यर्थः बृहतीं प्रजापतेरा- ज्ञयावर्धयित्रीं प्रकृतिं अप्सु अन्तः प्रकृतिस्थानां सूक्ष्माणामुदकानां मध्ये चरतः प्रजापत्या देशादाराधयतः । कीदृशौ पवित्रवन्ता पवित्रवन्तौ मन्त्रः पवित्रमुच्यते ध्यानसाधनप्रणव- मन्त्रवन्तौ पुनंता पुनन्तौ शुद्धौ प्रणवध्यानेनात्मानं संस्कुर्वंतावित्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८