मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १८

संहिता

वि क्रो॑श॒नासो॒ विष्व॑ञ्च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः ।
अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥

पदपाठः

वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः ।
अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रुऽअ॑न्नः । इत् । व॒न॒व॒त् । स॒र्पिःऽअ॑न्नः ॥

सायणभाष्यम्

विक्रोशनासः विविधं प्रजापतिंपितरमाह्वयन्तः विष्वञ्चः नानागतयोनानापुजनावा सर्वेङ्गिरसआयन् आगच्छन् प्रजापतेः सकाशादुत्पन्नाइत्यर्थः । उत्पद्यमानो नेमः अर्धः अ- ङ्गिरसां मध्ये एकोभागः पचाति प्रजापत्यर्थं हवींषि पचति अर्धः अपरोभागः नहि प- क्षत् नहि पचति । एतत्सर्वं कथमज्ञायि उच्यते—अयमीदृशोदेवः द्योतमानः सविता सर्व- स्य प्रेरकः आदित्योवा प्रजापतिवा मे मह्यं तत्सर्वं यथोक्तमाह । किञ्च सर्पिरन्नः घृतौ- दनः द्र्वन्नः इत् दार्वोदनोग्निरपि वनवत् हविर्द्वारेण प्रजापतिं वनति संभजते ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८