मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १९

संहिता

अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानम् ।
सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥

पदपाठः

अप॑श्यम् । ग्राम॑म् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् ।
सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥

सायणभाष्यम्

अपश्यं वसुक्रोहं प्रजापतिरूपमिन्द्रं सम्यक् ज्ञानेन दृष्टवानस्मि । कीदृशं ग्रामं भूतसंघं वहमानं वाहयन्तं सृजन्तमित्यर्थः । कुतः आरात् दूरात् उपादानकारणात् प्रकृतितइत्यर्थः अचक्रया चक्र्वर्जितया रथहीरया स्वधया स्वयमात्मानं धारयन्त्या सेनया वर्तमानमाग- च्छन्तं एवंभूतमपश्यमित्यर्थः । किञ्च अर्यः सर्वस्य स्वामीन्द्रः जनानां यजमानानां कार्य- त्वेन संबंधिनः युगा युग्मानि यज्ञकालविशेषान् प्रसिषक्ति प्रकर्षेण सेवते । कीदृशः सद्य- स्तदानीमेव शीश्ना शिश्नानि शिश्नं श्नथतेरितिनिर्वचनात् श्नथितॄणि ताडयितॄणि राक्षसा- दिवृन्दानि प्रमिनानः प्रकर्षेण हिंसन् नवीयान् शरीरेण च बलपौरुषनयनादिभिश्च नवतरः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८