अद्रि॑णा ते म॒न्दिन॑ इन्द्र॒ तूया॑न्त्सु॒न्वन्ति॒ सोमा॒न्पिब॑सि॒ त्वमे॑षाम् ।
पच॑न्ति ते वृष॒भाँ अत्सि॒ तेषां॑ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा॑नः ॥
अद्रि॑णा । ते॒ । म॒न्दिनः॑ । इ॒न्द्र॒ । तूया॑न् । सु॒न्वन्ति॑ । सोमा॑न् । पिब॑सि । त्वम् । ए॒षा॒म् ।
पच॑न्ति । ते॒ । वृ॒ष॒भान् । अत्सि॑ । तेषा॑म् । पृ॒क्षेण॑ । यत् । म॒घ॒ऽव॒न् । हू॒यमा॑नः ॥
हे इन्द्र ते त्वदर्थं मन्दिनः मादयितॄन् तूयान् अविलंबितान् सोमान् अद्रिणा अभिष- वग्राद्व्णा सुन्वन्ति यजमानाअभिषुण्वन्ति । एषामस्मदादियजमानानां संबंधीन् सोमान् त्वं पिबसि । किञ्च ते त्वदर्थं वृषभान् पशून् ये यजमानाः पचन्ति तेषां संबंधि हविर्भू- तान् अत्सि भक्षयसि । हे मघवन् धनवन्निन्द्र त्वं यत् यदा पृक्षेण हविर्भूतेनान्नेन निर्मितेन हूयमानः यजमानैर्हूयसे तदेति पूर्वेण संबंधः ॥ ३ ॥