मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २८, ऋक् ५

संहिता

क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो॑ मनी॒षाम् ।
त्वं नो॑ वि॒द्वाँ ऋ॑तु॒था वि वो॑चो॒ यमर्धं॑ ते मघवन्क्षे॒म्या धूः ॥

पदपाठः

क॒था । ते॒ । ए॒तत् । अ॒हम् । आ । चि॒के॒त॒म् । गृत्स॑स्य । पाकः॑ । त॒वसः॑ । म॒नी॒षाम् ।
त्वम् । नः॒ । वि॒द्वान् । ऋ॒तु॒ऽथा । वि । वो॒चः॒ । यम् । अर्ध॑म् । ते॒ । म॒घ॒ऽव॒न् । क्षे॒म्या । धूः ॥

सायणभाष्यम्

हे इन्द्र पाकः पक्तव्यप्रज्ञोहं गृत्सस्य मेधाविनस्तवसोवृद्धस्य ते तव मनीषां स्तुतिं कर्तुमिति शेषः एतदीदृशं त्वदीयं सामर्थ्यं कथा कथं केन प्रकारेण आचिकेतं आसमंता- ज्जानामि । त्वदुपदेशं विना न जानामीत्यर्थः । तस्मात्कारणात् विद्वान्सर्वज्ञस्त्वमेव नोस्म भ्यं ऋतुथा काले विवोचः विशेषेण ब्रूहि । हे मघवन् धनवन्निन्द्र ते तव अर्धं यं स्तुत्य वयवं वयं कुर्मः सा स्तुतिः क्षेम्या क्षेमेभवा क्लेशरहिता वोढुं शक्या धूरस्ति यस्मात् अतः स्तुत्यवयवमेव वयमक्लेशॆन कर्तुं न शक्नुमः अस्माकं मंदबुद्धित्वात् । तस्मात्त्वमेवा स्मभ्यं स्वसामर्थ्यं स्तुतिप्रकारं च पुनरपि कथयेत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०