मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २८, ऋक् ११

संहिता

तेभ्यो॑ गो॒धा अ॒यथं॑ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीय॒न्त्यन्नै॑ः ।
सि॒म उ॒क्ष्णो॑ऽवसृ॒ष्टाँ अ॑दन्ति स्व॒यं बला॑नि त॒न्व॑ः शृणा॒नाः ॥

पदपाठः

तेभ्यः॑ । गो॒धाः । अ॒यथ॑म् । क॒र्ष॒त् । ए॒तत् । ये । ब्र॒ह्मणः॑ । प्र॒ति॒ऽपीय॑न्ति । अन्नैः॑ ।
सि॒मः । उ॒क्ष्णः । अ॒व॒ऽसृ॒ष्टान् । अ॒द॒न्ति॒ । स्व॒यम् । बला॑नि । त॒न्वः॑ । शृ॒णा॒नाः ॥

सायणभाष्यम्

ये मरुदादिदेवगणाः ब्रह्मणः परिवृढस्येन्द्रस्य स्वभूतैरन्नैः सोमाख्यैः तृप्ताः सन्तः इति शेषः प्रतिपीयन्ति । पीयतिर्हिंसाकर्मा इन्द्रादेशाद्धिंसकान्प्रतिहिंसन्ति । तेभ्यः तेषां देवगणा नामर्थाय गोधाः पूर्वोक्ता गायत्री अयथं अनायासेन एतत्सोमजातं कर्षदाकृष्टवती । किञ्च सिमः सिमान् श्रेष्ठान् यद्वा सिमशब्दः सर्वशब्दपर्यायः सर्वानुक्ष्णः सिञ्चतः अवसृष्टान् इन्द्रेण निसृष्टान् अनुज्ञातान् हविर्भूतान् सोमान् यज्ञेष्वदन्ति । किंकुर्वन्तः स्वयमात्मनैव बलानि शत्रूणां सैन्यानि तन्वः शरीराणि च श्रृणानाः हिंसन्तः गायत्रीन्द्रादेशाद्देवेभ्यः सोममाहृत वतीत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१