मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २९, ऋक् २

संहिता

प्र ते॑ अ॒स्या उ॒षस॒ः प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम् ।
अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥

पदपाठः

प्र । ते॒ । अ॒स्याः । उ॒षसः॑ । प्र । अप॑रस्याः । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् ।
अनु॑ । त्रि॒ऽशोकः॑ । श॒तम् । आ । अ॒व॒ह॒त्् । नॄन् । कुत्से॑न । रथः॑ । यः । अस॑त् । स॒स॒ऽवान् ॥

सायणभाष्यम्

अस्यावर्तमानायाः ईदृश्याउषसः नृतौ नॄनये नयने प्रापणे उदयकाले इत्यर्थः नृणां नेतॄणां मध्ये नृतमस्य अतिशयेन नेतुस्ते तवेन्द्रस्य स्तुत्या यागेन च प्रस्याम वयं प्रकृ ष्टाभवेम । तथा हे इन्द्र अपरस्या आगामिन्याश्चोषसः नृतौ प्रापणे तव स्तुत्या यागेन च वयं प्रकृष्टाभवेमेत्याशास्महे । किञ्च त्रिशोकोनामऋषिः हे इन्द्र त्वामाराध्य त्वत्प्रसा दात् शतं बहून् अनु अनुचरभूतान् नॄन् मनुष्यानावहत् प्रापितवान् लब्धवानित्यर्थः । तथा तव कुत्सस्य च ससवान् सनिता युगपदेव संभक्ता योरथः असत् अस्ति तं रथं कुत्सो लब्धवानितिशॆषः । तथाच मन्त्रान्तरे श्रूयते—यासिकुत्सेनसरथमवस्युरिति । यस्मादेवं तस्मात् त्वत्प्रसादाद्वयं प्रकृष्टाभवेमेत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२