मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २९, ऋक् ५

संहिता

प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् ।
गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नै॑ः ॥

पदपाठः

प्र । ई॒र॒य॒ । सूरः॑ । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धाःऽइ॑व । ग्मन् ।
गिरः॑ । च॒ । ये । ते॒ । तु॒वि॒ऽजा॒त॒ । पू॒र्वीः । नरः॑ । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नैः॑ ॥

सायणभाष्यम्

सूरः सूर्यः अर्थंन यथा अर्तारं गन्तारं योगिनमनुगृह्णन् पारं संसारस्यान्तमपवर्गं ग- मयति तथा हे इन्द्र त्वं यजमानान् संसारस्यान्तं प्रेरय गमय ये अस्मदादयोयजमानाः अस्य तवेन्द्रस्य कामं सोमपानेच्छां ग्मन् गमिरत्र विपूर्वोन्तर्भावितण्यर्थश्च द्रष्टव्यः विग- मयन्ति महता सोमपानेनापनयन्ति । तत्र दृष्टान्तः—जनिधाइव जनीनां जायानां संभो- गकाले शय्यासु धारयितारः पतयोयथा प्रभूतसंभोगप्रदानेन मैथुनेच्छामपनयन्ति तद्वत् । किञ्च नरोनेतारोस्मदादयोये यजमानाः हे तुविजात बहुरूप रूपंरूपंप्रतिरूपोबभुवेति वच नात् । सर्वात्मन्निन्द्र ते तुभ्यं पूर्वीः अनादिकालप्रवृत्तागिरश्च स्तुतिलक्षणावाचश्च अन्नैः पुरोडाशादिहविर्भिः सह प्रतिशिक्षन्ति प्रतिकालं प्रयच्छन्ति तानस्मदादीन्यजमानान् पारं गमयेति पूर्वेण संबंधः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२