मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २९, ऋक् ७

संहिता

आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः ।
स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्य॒ः पौंस्यै॑श्च ॥

पदपाठः

आ । मध्वः॑ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पू॒र्णम् । सः । हि । स॒त्यऽरा॑धाः ।
सः । व॒वृ॒धे॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा॑ । नर्यः॑ । पौंस्यैः॑ । च॒ ॥

सायणभाष्यम्

अस्मै इन्द्राय अस्येन्द्रार्थं मधोव्मधुररसस्य सोमस्य पूर्णं अमत्रं ग्रहचमसादिकं पात्रं आअसिचन् असिञ्चन् आभिमुख्येन स्थित्वा परयाभक्त्या अस्मदीयाऋत्विजः सिक्तवन्तः अग्नौ प्रक्षिप्तवन्तः । हि यस्मात्कारणात्सइन्द्रः सत्यराधाः सत्यधनः यजमानेभ्योदातव्येना विसंवादिधनइत्यर्थः । तस्मादसिञ्चन्निति संबंधः । अग्नावासिक्तेन तेन पात्रेण तृप्तः सइन्द्रः पृथिव्याः अन्तरिक्षस्य वरिमन्नतिशयेन विस्तीर्णस्थाने आगत्य अभिववृधे अभिवर्धते । कीदृशइन्द्रः नर्यः नृभ्योहितः क्रत्वा वृत्रवधादिकर्मणा प्रज्ञानेनवा पौंस्यैश्च युक्तइतिशेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३