मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् ४

संहिता

अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॒॑क्षः ।
पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तम् ॥

पदपाठः

अ॒न्ये । जा॒याम् । परि॑ । मृ॒श॒न्ति॒ । अ॒स्य॒ । यस्य॑ । अगृ॑धत् । वेद॑ने । वा॒जी । अ॒क्षः ।
पि॒ता । मा॒ता । भ्रात॑रः । ए॒न॒म् । आ॒हुः॒ । न । जा॒नी॒मः॒ । नय॑त । ब॒द्धम् । ए॒तम् ॥

सायणभाष्यम्

यस्य कित्वस्य वेदने धने वाजी बलवान् अक्षोदेवोऽगृधत् अभिकांक्षां करोति तस्या- स्य कितवस्य जायां भार्यामन्ये प्रतिकितवाः परिमृशंति वस्त्रकेशाद्याकर्षणेन संस्पृशंति । किंच पिता माता जननी च भ्रातरः सहोदराश्चैनं कितवमाहुः वदंति न वयमस्मदीयं एनं जानीमः रवा बद्धमेतं कितवं हे कितवायूयं नयत यथेष्टदेशं प्रापयतेति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः