मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् ६

संहिता

स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः ।
अ॒क्षासो॑ अस्य॒ वि ति॑रन्ति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥

पदपाठः

स॒भाम् । ए॒ति॒ । कि॒त॒वः । पृ॒च्छमा॑नः । जे॒ष्यामि॑ । इति॑ । त॒न्वा॑ । शूशु॑जानः ।
अ॒क्षासः॑ । अ॒स्य॒ । वि । ति॒र॒न्ति॒ । काम॑म् । प्र॒ति॒ऽदीव्ने॑ । दध॑तः । आ । कृ॒तानि॑ ॥

सायणभाष्यम्

तन्वा शरीरेण शूशुजानः शोशुचानोदीप्यमानः कितवः कोत्रास्ति धनिकः तं जेष्यामी- ति पृच्छमानः पृच्छन् सभां कितवसंबंधिनीमेति गच्छति तत्र प्रतिदीन्ने प्रतिदेवित्रे कित वाय कृतानि देवनोपयुक्तानि कर्माण्यादधतोजयार्थमाभिमुख्येन मर्यादया वा दधतोस्य कितवस्य काममिच्छामक्षासोक्षाः वितिरंति वर्धयंति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः