मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् ७

संहिता

अ॒क्षास॒ इद॑ङ्कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णवः॑ ।
कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥

पदपाठः

अ॒क्षासः॑ । इत् । अ॒ङ्कु॒शिनः॑ । नि॒ऽतो॒दिनः॑ । नि॒ऽकृत्वा॑नः । तप॑नाः । ता॒प॒यि॒ष्णवः॑ ।
कु॒मा॒रऽदे॑ष्णाः । जय॑तः । पु॒नः॒ऽहनः॑ । मध्वा॑ । सम्ऽपृ॑क्ताः । कि॒त॒वस्य॑ । ब॒र्हणा॑ ॥

सायणभाष्यम्

अक्षासइत् अक्षाएव अंकुशिनोंकुशवंतोनितोदिनोनितोदितवंतश्च पुरुषे च कृषौ प्रवर्त माने निकृत्वानः पराजये निकर्तनशीलाः छेत्तारोवा तपनाः पराजये कित्वस्य संतापकाः तापयिष्णवः सर्वस्वहारकत्वेन कुटुंबस्य संतापनशीलाश्च भवंति । किंच जयतः कितवस्य कुमारदेष्णाधनदानेन धन्यतां लंभयंतः कुमाराणां दातारोभवंति । अपिच मध्वा मधुना संपृक्ताः प्रतिकितवेन बर्हणा परिवृद्धेन सर्वस्वहरणेन कितवस्य पुनर्हणः पुनर्हंतारोभवंति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः