मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् ९

संहिता

नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते ।
दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥

पदपाठः

नी॒चा । व॒र्त॒न्ते॒ । उ॒परि॑ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः॑ । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ ।
दि॒व्याः । अङ्गा॑राः । इरि॑णे । निऽउ॑प्ताः । शी॒ताः । सन्तः॑ । हृद॑यम् । निः । द॒ह॒न्ति॒ ॥

सायणभाष्यम्

अपि चैते अक्षाः नीचा नीचीनस्थले वर्तंते तथाप्युपरि पराजयाद्भीतानां द्यूतकराणां कितवानां हृदयस्योपरिस्फुरंति अहस्तासोहस्तरहिताअप्यक्षाः हस्तवंतं द्यूतकरं कितवं स- हंते पराजयकरणेन अभिभवंति । दिव्यादिविभवाअपकृताः अंगाराः अंगारसदृशाः अक्षाः इरिए इंधनरहिते आस्फारे न्युप्ताः शीताः शीतस्पर्शाः संतोपि हृदयं कितवानामंतःकरणं निर्दहंति पराजयजनितसंतापेन भस्मीकुर्वंति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः