अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः ।
तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥
अ॒क्षैः । मा । दी॒व्यः॒ । कृ॒षिम् । इत् । कृ॒ष॒स्व॒ । वि॒त्ते । र॒म॒स्व॒ । ब॒हु । मन्य॑मानः ।
तत्र॑ । गावः॑ । कि॒त॒व॒ । तत्र॑ । जा॒या । तत् । मे॒ । वि । च॒ष्टे॒ । स॒वि॒ता । अ॒यम् । अ॒र्यः ॥
हे कितव बहुमन्यमानोमद्वचने विश्वासं कुर्वन् त्वमक्षैर्मा दीव्योद्यूतं मा कुरु । कृषि- मित् कृषिमेव कृषस्व कुरु । विक्तेकृष्या संपादिते धने रभस्व रतिं कुरु । तत्र कृषौ गावोभवंति तत्र जाया भवति तदेव धर्मरहस्यं श्रुतिस्मृतिकर्ता सविता सर्वस्य प्रेरकोयं दृष्टिगोचरोऽर्यईश्वरोमे मह्यं विचष्टे विविधमाख्यातवान् ॥ १३ ॥