अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर॑न्त उ॒षसो॒ व्यु॑ष्टिषु ।
म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥
अबु॑ध्रम् । ऊं॒ इति॑ । त्ये । इन्द्र॑ऽवन्तः । अ॒ग्नयः॑ । ज्योतिः॑ । भर॑न्तः । उ॒षसः॑ । विऽउ॑ष्टिषु ।
म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । चे॒त॒ता॒म् । अपः॑ । अ॒द्य । दे॒वाना॑म् । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥
इंद्रवंतोयष्टव्यत्वेनेन्द्रसंबंधिनः त्ये ते अमी आहवनीयादयोग्नयः उषसोव्युष्टिषु व्युच्छनेषु तमसां विवसनकालेषुज्योतिः तेजोभरंतोधारयंतः अबुध्रं प्रबुद्धाआसन् । मही महत्यौ द्या- वापृथिव्यौ अपः कर्म अपः अप्नइतिकर्मनामसुपाठात् । चेततां जानीतां अद्यास्मिन्नहनि दे- वानामिंद्रादीनां अवोरक्षणं वयमावृणीमहे ॥ १ ॥