मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् ३

संहिता

द्यावा॑ नो अ॒द्य पृ॑थि॒वी अना॑गसो म॒ही त्रा॑येतां सुवि॒ताय॑ मा॒तरा॑ ।
उ॒षा उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

द्यावा॑ । नः॒ । अ॒द्य । पृ॒थि॒वी इति॑ । अना॑गसः । म॒ही इति॑ । त्रा॒ये॒ता॒म् । सु॒वि॒ताय॑ । मा॒तरा॑ ।
उ॒षाः । उ॒च्छन्ती॑ । अप॑ । बा॒ध॒ता॒म् । अ॒घम् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

मही महत्यौ मातरा मातरौ सर्वस्य मातृभूते द्यावापृथिवी द्यावापृथिव्यौ अद्यास्मि- न्नहनि अनागसोपराधरहितान् नोस्मान् सुविताय सुखाय त्रायेतां रक्षताम् । किंच उच्छंती तमांसि विवासयंती उषाः अस्माकमघं पापमपबाधतां अपनयतु अपिच समिधानं सम्यक् दीप्यमानमग्निं स्वस्ति सर्वप्रकाराविनाशमीमहे वयं याचामहे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः