मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् ५

संहिता

प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर॑न्तीरु॒षसो॒ व्यु॑ष्टिषु ।
भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

प्र । याः । सिस्र॑ते । सूर्य॑स्य । र॒श्मिऽभिः॑ । ज्योतिः॑ । भर॑न्तीः । उ॒षसः॑ । विऽउ॑ष्टिषु ।
भ॒द्राः । नः॒ । अ॒द्य । श्रव॑से । वि । उ॒च्छ॒त॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

याउषसः सूर्यस्य रश्मिभिः किरणैः प्रसिस्रते संगच्छंते व्युष्टिषु व्युच्छनेषु तमसां वि- वासनकालेषु ज्योतिरात्मीयं तेजोभरंतीः भरंति च तायूयं नोस्माकमद्यास्मिन्नहनि श्रवसे अन्नाय भद्रा भजनीया भवत् व्युच्छत तमांसि विवासयत च । सिद्धमन्यत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः