मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् ६

संहिता

अ॒न॒मी॒वा उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् ।
आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

अ॒न॒मी॒वाः । उ॒षसः॑ । आ । च॒र॒न्तु॒ । नः॒ । उत् । अ॒ग्नयः॑ । जि॒ह॒ता॒म् । ज्योति॑षा । बृ॒हत् ।
अयु॑क्षाताम् । अ॒श्विना॑ । तूतु॑जिम् । रथ॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

अनमीवारोगरहिताः उषसोनोस्मानाचरंतु आगच्छंतु बृहत् बृहता महता ज्योतिषा ते- जसा युक्ताअग्नयोप्युज्जिहतां उद्गच्छंतु अश्विना अश्विनावपि तूतुजिं क्षिप्रगामिनं रथमायु- क्षातां अस्मान् प्रत्यागंतुं रासभाभ्यां युंक्तां हरितआदित्यस्य रासभावश्विनोरिति । पाठात् । सिद्धमन्यत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः